Ch. 3. Grah Characters and Description अथ ग्रहगुणस्वरूपाध्यायः॥३॥
#Brihat_Parasar_Hora_Sastra, #BPHS, #बृहत्_पाराशर_होरा_शास्त्र
कथितं भवता प्रेम्णा ग्रहावतरणं मुने।
तेषं गुणस्वरूपाद्यं कृपया कथ्यतां पुनः॥ १॥
1. Maitreya: “O Mahārishi, you have affectionately explained about the incarnations of Grahas. Now kindly detail their characters and dispositions.
शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम्।
आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बात्यनेकशः॥ २॥
तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित्।
तानि नक्षत्रनामानि स्थिरस्थानानि यानि चै॥ ३॥